देव-देवी-स्तोत्रं – वन्दनम्। Deva-Devi-Stotram – Vandanam- Hymn of Praise and Salutation to the Gods and Goddesses.

ईश्वरस्य वर्णनम्

(भगवतः वर्णनम्)

यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण,

स एव परमात्मा पूर्णब्रह्म स इति कथ्यते भगवान्।  


यः स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण संस्थितः।

स एव परमात्मा पूर्णब्रह्म स श्रीभगवान् स्मृतः॥


यः सर्वज्ञः सर्वशक्तिमान् जगतः कारणं नियन्ता स ईश्वरः।

यः ईश्वरः स एव भगवान् स परमब्रह्मादिदेवः सनातनः॥ 


यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण।

स एव परमात्मा पूर्णब्रह्म स हि कथ्यते श्रीभगवान्॥

💓

श्रीपरब्रह्मैककर्तृस्तुतिः

इदं जगति न दृश्यते कश्चिद् देवं असुरं नरं यक्षम्।

योऽसृजत् जीवान् ससागरं जलं वायुं धरां दिव्यम्।

सृष्टिं करोति समर्थं केवलं श्रीपरब्रह्मपरमेश्वरम्।

तस्य सह संलग्नान् तिष्ठन्ति तस्य अंशावतारकलेवरम्॥


जगदेककारणपरब्रह्मस्तोत्रम्

इदं जगति न दृश्यते कश्चिद् देवं असुरं नरं यक्षम्।

योऽसृजत् जीवान् ससागरं जलं वायुं धरां दिव्यम्।


सृष्टिं करोति समर्थं केवलं श्रीपरब्रह्मपरमेश्वरम्।

तस्य सह संलग्नान् तिष्ठन्ति तस्य अंशावतारकलेवरम्॥


इदं जगति न दृश्यते कश्चिद् देवं असुरं नरं यक्षम्।

योऽसृजत् जीवान् ससागरं जलं वायुं धरां दिव्यम्।


सृष्टिं करोति समर्थं श्रीजगदीश्वरं जगदेककारणं नित्यम्।

तं श्रीपरब्रह्मपरमेश्वरं वन्दे तदंशावतारकलेवरम्॥


परब्रह्मवन्दना

शान्ताकारं जगन्नाथं बलभद्रं सहानुगम्।

प्रद्युम्नानिरुद्धयुक्तं नारायणमनामयम्॥


शेषाङ्गशायिनं देवं महालक्ष्म्याः समन्वितम्।

परमात्मानमीशानं प्रकृत्याः पतिमव्ययम्॥


सर्वभूतहितं शान्तं नित्यं सच्चिदनन्दरम्।

ध्यानमूलं जगद्गुरुं वन्दे देवम् सनातनम्॥

💧

श्रीजगन्नाथ प्रणाम-मन्त्रः

शान्त-सौम्य-प्रसन्न-वदनं परं ब्रह्म महाद्युतिम् ।

तमोऽरिं सर्व-पाप-घ्नं प्रणतोऽस्मि श्रीजगन्नाथम् ॥

  श्रीबलभद्र  प्रणाम-मन्त्रः

शान्त-सौम्य-प्रसन्न-वदनं परं ब्रह्म महाद्युतिम् ।

तमोऽरिं सर्व-पाप-घ्नं प्रणतोऽस्मि  श्रीबलभद्रम् ॥

💓

परब्रह्म-स्तवनम्

त्वमेव ब्रह्म परब्रह्म त्वमेव।

त्वमेव ईश्वरः परमेश्वरः त्वमेव।

त्वमेव विश्वात्मा परमात्मा त्वमेव॥

त्वमेव परमपिता सृष्टिकर्ता त्वमेव॥


त्वमेव जगन्नाथो बलभद्रः त्वमेव॥

त्वमेव प्रकृति परमात्मिका त्वमेव।

त्वमेव प्रद्युम्न अनिरुद्ध त्वमेव।

त्वमेव सर्वं मम देवदेव॥

श्रीअनन्तमाधव-नारायण

-नमस्कारस्तोत्रम्

ॐ श्री अनन्तमाधवाय नारायणाय 

वासुदेवाय शङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय

पद्मनाभाय पुरुषोत्तमाय विष्णवे नमः।

श्रीजगन्नाथरूपवर्णनम्

एक एव श्रीजगन्नाथः बहुधा दृश्यते।
भुजसंख्या रूपानुसारिणीति कथ्यते॥

जगन्नाथबलभद्रौ यदा देहे समन्वितौ।
तदा स चतुर्भुजो देवो जगदीशः स साक्षात्॥

जगन्नाथबलभद्रप्रद्युम्नानिरुद्धसंयुतः।
एकस्मिन् देहे संयुक्तोऽष्टबाहुः स साक्षात्॥

जगन्नाथः परमब्रह्म आदिदेवः सनातनः।
बलभद्रः तस्य अंशः, जगन्नाथप्राणरूपः॥

शेषनागः अनन्तदेवः बलभद्रांशस्वरूपः।
विश्वभारधरणहारः आदिदेवः सनातनः॥

जगन्नाथबलभद्रौ यदा देहे समन्वितौ।
तदा स चतुर्भुजो देवो जगदीशः स साक्षात्॥

जगन्नाथबलभद्रप्रद्युम्नानिरुद्धसंयुतः।
एकस्मिन् देहे संयुक्तोऽष्टबाहुः स साक्षात्॥

💓

श्रीजगन्नाथ-बलभद्र-शेषनागतत्त्ववर्णनम्

जगन्नाथः परमब्रह्म आदिदेवः सनातनः।

बलभद्रः तस्य अंशः, जगन्नाथप्राणरूपः॥


शेषनागः अनन्तदेवः बलभद्रांशस्वरूपः।

विश्वभारधरणहारः आदिदेवः सनातनः॥

💓

श्री जगन्नाथ स्तोत्र 

गोलोके विहरन् रसमय-भक्ति-गीत-तरङ्ग-लीलान्वितः।

मुरली-कल-गान-मधुर-मनोज्ञ-स्वरोद्गीत-लास्यरतः॥


सुन्दर-सौरभ-तनुः करुणा-निधिः भक्त-वर-दान-प्रदः।

मम हृदये अनुभूतः जगन्नाथः स्वामी नयनपथगामी भवतु मे॥


वैकुण्ठे विराजन् कमल-सदृश-कान्ति-विभूषितः।

सर्व-देव-नमित-पदः सर्व-भक्त-हृदयान्तःस्थितः।


अखिल-जगत्-नाथोऽनन्त-आनन्द-सिन्धोः सागरः।

मम हृदये अनुभूतः जगन्नाथः स्वामी नयनपथगामी भवतु मे॥


क्षीरार्णव-तरङ्ग-ललित-चन्द्र-कलाधर-सुन्दरः।

देव-नुत-पद-पङ्कज-रजो-राजित-भास्करः॥

नारायणो भक्त-वर-दः मुरली-रव-मोहितः॥

मम हृदयेऽनुभूतो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥


गोलोक-सरोरुह-जल-तरल-लोचन-दीप्तिमान्।

लक्ष्मी-सहित-रस-रङ्ग-लीला-शालिन् सनातनः॥

भक्त-जन-मानस-चन्द्रः त्रिभुवन-तमो-हरः।

मम हृदयेऽनुभूतो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥


वैकुण्ठ-विहारी, नरक-भय-हारी, सुर-पालक ईश्वरः।

गोलोक-नट-वर-किशोर-रूप-लावण्य-सुन्दरः।

सर्व-जन-प्रियः, कृपा-मय-हृदय-प्रसन्न-दः सर्वेश्वरः।

मम हृदयेऽनुभूतो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥


श्रीजगन्नाथतत्त्वप्रकाशः

(मुक्तछन्दः)

एकः ब्रह्म महाप्रभुः श्रीजगन्नाथः जगदीश्वरः॥

सर्वाधिकारः तस्यैव, नान्यः कश्चित् ईश्वरः॥


मा कुरुत अन्यायं, मा कुरुत अनधिकारकर्म।

अनधिकारिणः सर्वे लभन्ते धर्मतः दण्डम्॥


अहङ्कारो न रोचते, न रोचते बलदर्पणम्।

विनयः प्रीतिकर्ता स्यात्, तदेव ईश्वराभिलषितम्॥


सर्वेश्वरं महाप्रभुं श्रीजगन्नाथं  भक्तवत्सलम्॥

स्वांशैः सह महाप्रभुः करोति जगतः सञ्चालनम्॥


भक्तानुग्रहकर्ता सः लीलया धृतवान् मनुष्यताम्।

लोकहितार्थमुद्दिश्य दर्शयति अद्भुतं चरितम्॥

💧

श्रीविष्णोः दिव्यरूपवर्णनम्।

शङ्खचक्रं किरीटिनं च हारकेयूरमण्डितम्।

पीताम्बरधरं देवं श्रीवत्साङ्कितवक्षसम्॥

चन्द्रकोटिसुसौन्दर्यं कोटिसूर्यसमप्रभम्।

वन्दे विष्णुं जगन्नाथं लोकनाथं सनातनम्॥

💓


प्रकृति-स्तोत्रम्।


त्वमेव श्रीपरमात्मिका, त्वमेव माता प्रकृतिः ।

त्वमेव माता योगमाया, त्वमेव माता महालक्ष्मी ॥


जगन्माते! तव महिमा लोके अनन्ता सदा स्मृता,

त्वमेव सृष्टितत्त्वं हि शास्त्रे शास्त्रे निरन्तरदृश्यता॥


त्वयि सङ्गतमेतत् जगत् सर्वं निरन्तरम्,

गुणगणाः प्रगीतास्ते शास्त्रेषु सततं परमम्॥


तेन जलेन सिञ्यते प्राणिनां जीवनध्रुतिः,

तेन वायुविना स्फुरति हृदयस्य सदैव गति॥


ते शीतलां गतिं लब्ध्वा सर्वे लालनकर्मणि,

ते पोषणं सुखसाधनं, ते हि जीवितहेतवः सर्वाणि॥


ते सुवर्णस्मितेनैव सञ्जायन्ते जगत्त्रयम्,

विश्वस्य विविधा रूपा स्रुज्यन्ते अनन्तम्॥


अद्भुतं ते कथं रूपं, अद्भुतं तेऽपि मधुरकान्तिः,

अद्भुतं तु तारा यस्मात् निर्मलानि प्रकाशयन्ति॥


अद्भुता तव सृष्टिः सा, अद्भुतं तव संस्थितिः,

तेन सम्पूर्णं जगद् आलोकितं, सदा हृषितं च हृदि॥


त्वमेव परमात्मिका, त्वमेव महालक्ष्मी, त्वमेव जगत्गति।

जीवसत्त्वस्य धारणा, पालनं पोषणं, एकमात्रा गतिः॥


ॐ विश्वसृष्टेः रचयित्री महादेवि नमोऽस्तु ते।

स्नेहमयी जगन्माता परमात्मिके नमोऽस्तु ते॥


ॐ प्रकृत्यै नमः। ॐ परमात्मिकायै नमः।

ॐ श्री महालक्ष्म्यै नमः । ॐ सर्वमातृशक्त्यै नमः ॥



आवाहनम्।

ॐ श्रीजगन्नाथाय नमः। ॐ श्रीजगन्नाथम् आवाहयामि॥

ॐ श्रीबलभद्राय नमः। ॐ श्रीबलभद्रं आवाहयामि॥

ॐ श्रीप्रद्युम्नाय नमः। ॐ श्रीप्रद्युम्नम् आवाहयामि॥

ॐ श्रीअनिरुद्धाय नमः। ॐ श्रीअनिरुद्धम् आवाहयामि॥

ॐ श्रीनारायणाय नमः। ॐ श्रीनारायणम् आवाहयामि॥

ॐ श्रीअनन्तशेषाय नमः। ॐ श्रीअनन्तशेषम् आवाहयामि॥

ॐ श्रीमहालक्ष्म्यै नमः। ॐ श्रीमहालक्ष्मीं आवाहयामि॥

ॐ श्रीनारायण्यै नमः। ॐ श्रीनारायणीं आवाहयामि॥

ॐ सर्वसृष्टिकर्त्रे नमः। ॐ सर्वसृष्टिकर्तारम् आवाहयामि॥

ॐ परमात्मने नमः। ॐ परमात्मानम् आवाहयामि॥

ॐ परमात्मिकायै नमः। ॐ परमात्मिकाम् आवाहयामि॥

ॐ प्रकृत्यै नमः। ॐ प्रकृतिम् आवाहयामि॥

ॐ सर्वपार्श्वस्थिताभ्यो देवीदेवताभ्यो नमः॥

ॐ सर्वपार्श्वस्थितदेवीदेवताभ्यः आवाहयामि॥

ॐ सर्वसृष्टये नमः। ॐ सर्वसृष्टिम् आवाहयामि॥

💓

ॐकारस्तोत्रम्।

ॐकारः परमं ब्रह्म, ॐकारः परमं तपः।

ॐकारं हि परं ज्योतिः, ॐकारं परमं बीजम्॥


ॐकारः प्रणवो मन्त्रः, सर्वमन्त्राणि मूलकम्।

ध्यानिनां हृदि सञ्चारि, योगिनां परमं ध्रुवम्॥


ॐकारो वेदबीजं च, ॐकारः सर्वसिद्धिदः।

ॐकारेणैव संसिद्धं, जगत्स्थावरजङ्गमम्॥


ॐ इति प्रथमो मन्त्रो, ज्ञानमूलं सनातनम्।

यस्यान्ते ब्रह्मलब्धिः स्यात्, तेनैव परमं पदम्॥

भक्तवत्सलत्वम्

नाहं स्वतन्त्रः अत्र, भक्ताधीनः सदा ह्यहम्।

भक्तेषु मे स्थिता प्रीतिः, ते मे सदा प्राणसमाः ॥


अहम् अस्वतन्त्रः नित्यं, भक्तपराधीन एव च।

स्नेहबन्धेन बद्धोऽस्मि, प्रेम्णा परिकर्षितः॥


न मे स्वार्थः कदाचित् स्यात्, भक्तानां तु सुखं मम।

तेषां विनाशे दुःखं मे, तेषां हर्षे सुखं मम॥


यथा जननी पुत्रे स्वप्राणान् अपि अर्पयेत्।

तथाहं स्वात्मानं भक्तजनाय ददाम्यहम्॥

भक्तवत्सल्य-स्तोत्रम् (2)

नाहं स्वतन्त्र एवात्र, भक्ताधीनः सदा ह्यहम्।

भक्तेषु स्थिता मम प्रीति, ते मम प्राणसखा परमः॥


ये भक्ताः शरणं यान्ति, तेषां रक्षां करोम्यहम्।

नाहं जहामि तान् भक्तान्, मयि ते नित्यशरणम्॥

💓



ॐ श्री जगन्नाथ स्तोत्रम् ॐ

ॐ श्री गुरुभ्यः नमः । हरिः ॐ ॥


ध्यानश्लोकः


परब्रह्म आदिदेवं शङ्खचक्रगदाधरम्।

पीताम्बरधरं शान्तं स्मरामि श्री जगन्नाथम्॥

1

यतः अनन्तशक्तिः, अनन्ताश्च जीवाः।

यतः निर्गुणात् अप्रमेयाः गुणाः।

यतः भाति सर्वं त्रिधा भेदभिन्नम्।

सदा तं जगन्नाथं नमामः भजामः॥

2

यतः च अविरासीद् जगत् सर्वम् एतत्।

ततः अब्जासनः, विश्वगः, विश्वगोप्ता।

ततः इन्द्रादयः देवसंघाः मनुष्याः।

सदा तं नारायणं नमामः भजामः॥

3

यतः अग्निः वायुः भानुः भूः च भवः।

यतः सागरः जलं चन्द्रमाः व्योम।

यतः स्थावराः जङ्गमाः वृक्षसंघाः।

सदा तं नारायणं नमामः भजामः॥

4

यतः दानवाः किन्नराः यक्षसंघाः।

यतः चारणाः पन्नगाः च व्योमगाः।

यतः पक्षिणः कीटाः यतः वीरुधः।

सदा तं नारायणं नमामः भजामः॥

5

यतः बुद्धिः अज्ञाननाशः मुमुक्षुः।

यतः सम्पदः भक्तसन्तोषिकाः स्युः।

यतः विघ्ननाशः यतः कार्यसिद्धिः।

सदा तं नारायणं नमामः भजामः॥

6

यतः पुत्रलाभः यतः वाञ्छितार्थः।

यतः अभक्तविघ्नाः च नानारूपाः।

यतः शोकमोहकामाः विनष्टाः।

सदा तं जगन्नाथं नमामः भजामः॥

7

यतः अनन्तशक्तिः, सः शेषः बभूव।

धराधारणे, अनेकरूपे प्रबुद्धः।

यतः अनेकधा स्वर्गलोकाः विचित्राः।

सदा तं जगन्नाथं नमामः भजामः॥

8

यतः वेदवाचः विलीयन्ते सर्वाः।

विकुञ्ठाः मनोभिः निरुद्धाः प्रपन्नाः।

परब्रह्मरूपं च चिदानन्दजातम्।

सदा तं जगन्नाथं नमामः भजामः॥

💓💓

समापनः


॥ इति श्रीजगन्नाथस्तोत्रं सम्पूर्णम् ॥

💧

दर्शनोक्त नारायणस्तुति:

हे नाथ नारायण विभो श्रीहरे मधुसूदन।

सर्वे जनाः प्रपश्यन्ति त्वां श्रीहरिं जनार्दनम्॥


भक्तहृदये वससि नित्यं करुणासागरम्।

परब्रह्मेति वेदान्तविदां मतमुत्तमम्॥


सांख्यविदः प्रपश्यन्ति त्वामेव परमेश्वरम्।

त्वां महापुरुषं प्राहुः पञ्चरात्रज्ञकाः परम्॥


पतञ्जलिः सिद्धगणाः त्वां महापुरुषम्।

धर्मस्वरूपं विदुस्त्वां मीमांसकसमूहः॥


सर्वशास्त्रविदां नाथ त्वमेव परमं ध्रुवम्।

ते केवलं भजन्त्येनं लभन्ते मुक्तिं मोक्षपथम्।



💓

श्री नारायण स्तोत्रम्।

नीलाद्रिनाथं करुणावतारं
संसारसारं त्रितापहरम् ।
हृत्पद्ममध्यं सदया विराजं
नारायणं श्रीया सहितं नमामि ॥

ईश्वरप्राप्तिः

न पूजनैः न यज्ञैश्च न कर्मभिर्न ज्ञानतः ईश्वरप्राप्तिः।

शुद्धया निःस्वार्थभक्त्यैव भवत्येव भगवत्प्राप्तिः॥


श्रीजगन्नाथ-पञ्चकम

(श्रीजगन्नाथ-पञ्चकं) 


निलाद्रिशिखरे रम्ये रत्नसिंहासनस्थितम्।

दृष्ट्वा ये हृषिताः भक्ताः तं वन्दे जगन्नाथम्॥


करुणासागरं नित्यं भक्तानां दुःखनाशकम्।

नीलचक्रधरं देवं वन्दे श्रीजगदीश्वरम् ॥


दधाने कमलाक्षं तं विश्वरूपं विश्वेश्वरम्। 

अनाथनाथमीशानं वन्दे नीलाम्बुदप्रभम् ॥


यस्य नामस्मरणं शुद्धं सर्वपापविनाशनम्।

यः पातयति मोक्षाय तं वन्दे पुरुषोत्तमम् ॥


मत्स्याननादिदेहेषु लीला यस्य प्रदर्शितम्।

सर्वावतारनायक्यं वन्दे श्रीजगदीशरम् ॥


ईश्वरस्य समीपे जीवप्रार्थना ।

(मुक्तछन्दः)

शक्तिप्रार्थना:

इत्थं शक्तिं प्रदेहि श्रीनाथ,

मा नः श्रद्धा क्षणमपि क्षीयताम्।

सत्पथे नय जीवनपन्थानं,

मा नः स्खलनं भवतु किञ्चन॥


 ज्ञानप्रार्थना:

अज्ञानतिमिरं पूर्णं नाशय,

ज्ञानदीपप्रभया विभासय।

पापमार्गात् सदा रक्ष नः,

कल्याणीं जीवनविधिं प्रयच्छ॥


 सद्भावप्रार्थना:

नास्तु वैरं कस्यचिदपि,

नास्तु प्रतिशोधभावना मनसि।

न चिन्तयेम वयं स्वलाभकम्,

सदा स्मरामः कृतमर्पणम्॥


 करुणाप्रार्थना:

आनन्दपुष्पाणि वयं वितराम,

सर्वेषां जीवनमेतु मधुवनम्।

करुणाजलधारया जगन्नाथ,

पावय सर्वं मनसः कोणकम्॥


लोकदुःखनिवारणप्रार्थना:


दुःखमयं सर्वतोऽयं जगत्,

त्रस्तमानसो जनः कम्पितः।

पापभारो वर्धते नित्यशः,

कथं धरा धृतवती प्रभो॥


ममताप्रार्थना:

ममतया भगवन् भारमेतं

उद्धर त्वं करुणासिन्धो।

मा लुप्यतां तव सृष्टिरियम्,

शान्तिर्लोके भवतु स्थिरा॥


आत्मशुद्धिप्रार्थना :

स्वकृतं फलमश्नुयाम वयं,

मृत्योरपि नः भयं मा अस्तु।

अतीतदुःखं न पुनर्भवेत्,

भविष्यत् कल्याणमयं कुरु नाथ॥


अन्तिम ध्रुवपदः

इत्थं शक्तिं प्रदेहि श्रीनाथ,

मा नः श्रद्धा क्षणमपि क्षीयताम्।

सत्पथे नय जीवनपन्थानं,

मा नः स्खलनं भवतु किञ्चन॥

💧

सिद्ध मन्त्र ।

भक्तेनैव रचितं मन्त्रं भगवन् प्रसीदति।

यत्र भक्त्या हृदि निहिते देवो तत्र सदा वसति॥


भक्तेन रचितः मन्त्रः सर्वेषां श्रेष्ठः स्मृतः।

भक्ति-श्रद्धा-स्नेहयुतः हृदि यस्मिन् सदा स्थितः॥


भक्तेन रचितैर्मन्त्रैः, सदा प्रसन्नो जनार्दनः।  

यदा प्रसन्नो भगवान्, तदा पूजा स्फला ध्रुवम्॥

भगवत्प्रसन्नता

भगवत्प्रसन्नता

(मुक्तछन्दः)

यः भक्तः स्तौति भगवतः चतुर्व्यूहरूपम्,

तस्मै भगवान् भवति प्रसन्नः सदा अत्यन्तम्॥


यः भक्तः स्तौति पार्श्वदेवतानां समरूपम्,

तस्मै भगवान् भवति प्रसन्नः सदा सर्वाधिकम्॥


एतदेव हि परमं सत्यं नित्यम्,

सर्वयुगेषु सर्वकालेष्वपरिवर्तनीयम्॥

सर्वकालेष्वपरिवर्तनीयम्=सर्व+ कालेषु + अपरिवर्तनीयम्

ब्रह्मोपासना स्तोत्रम्

(ब्रह्मस्वरूप-स्तुतिः)


ॐ चतुर्भुजरूपाय उपास्महे ।

सत्यस्वरूपाय धीमहि ।

तन्नो ब्रह्म प्रचोदयात् ॥


ॐ षड्भुजरूपाय उपास्महे ।

शुद्धस्वरूपाय धीमहि ।

तन्नो ब्रह्म प्रचोदयात् ॥


ॐ अष्टभुजरूपाय उपास्महे ।

परमपवित्रस्वरूपाय धीमहि ।

तन्नो ब्रह्म प्रचोदयात् ॥

💓

ब्रह्म-गायत्री-मन्त्रः

ॐ चतुर्भुजरूपं विद्महे

सत्यस्वरूपं धीमहि।

तन्नो ब्रह्म प्रचोदयात्॥


ॐ षड्भुजरूपं विद्महे

शुद्धस्वरूपं धीमहि।

तन्नो ब्रह्म प्रचोदयात्॥


ॐ अष्टभुजरूपं विद्महे

परमपवित्रं धीमहि।

तन्नो ब्रह्म प्रचोदयात्॥

श्री नारायण स्तोत्रम्।

(Stotram & Song)

नीलाद्रिनाथं करुणावतारं

संसारसारं त्रितापहरम् ।

हृत्पद्ममध्यं सदया विराजं

नारायणं श्रीया सहितं नमामि ॥



अनन्तनारायणाष्टकम्।

नमामीश्वरं सच्चिदानन्दरूपं,

परं ब्रह्म देवैर्वर्णनीयरूपम्।

तव लीला अनन्ता तव रूपमनन्तं,

न जानन्ति वेदाः न ब्रह्मादिदेवा:॥ (१)


नमो देवदेव अनन्तविष्णो,

प्रसीद प्रभो दुःखसिन्धौ निमग्नम्।

स्वलीलाभिरानन्दकुण्डे निमग्नं,

मां उद्धर त्वं करुणासिन्धुरेव॥ (२)


इदं ते वपुर्नाथ बालं सुशोभं,

सदा मे मनस्येव नित्यं विराजेत्।

मुहुर्मुहर्दृष्ट्या तवाधरशोभां,

पिबेयं मनो मे न तृप्तिं प्रयाति॥ (३)


इदं ते मुखाम्भोजमत्यन्तशोभं,

कुन्तलैः स्निग्धैरलंकृत्ययुक्तम्।

भक्तानां हृदिस्थं मनोज्ञं सुदिव्यं,

प्रेम्णा पुनः पुनर्वन्दे नमामि॥ (४)


कृपादृष्टिवृष्ट्या कृपां कुरु नाथ,

अनाथं सदाऽहं दयां त्वं प्रयच्छ।

न मोक्षं वृणेऽहं न चाप्यन्यकामं,

भवद्भक्तिमेव प्रसीद प्रभो मे॥ (५)


यथा पूर्वभक्तान् कृपया विमुक्तान्,

अकार्षीर्भवान् मोक्षदं दीनबन्धो।

तथा मां विमोच्य प्रदेहि प्रभो त्वं,

स्वभक्तिं परां प्रेमरूपां दयालो॥ (६)


नमो भगवते तेजसा भासमान,

यस्यान्तर्गतं विश्वमेतत् समस्तम्।

नमो ब्रह्मणे ते नमो विश्वरूपिन्,

नमोऽनन्तलीलाय देवाय तुभ्यम्॥ (७)


नमामीश्वरं सच्चिदानन्दरूपं,

परं ब्रह्म देवैर्वर्णनीयरूपम्।

नमो देवदेव अनन्तविष्णो,

प्रसीद प्रभो दुःखसिन्धौ निमग्नम्॥ (८)

💧

कल्कि–धर्मसेना-गीत।

चल रे, चल रे, चल।

ऊर्ध्व गगने देख शतदल,

निम्ने अशान्त धरणीतल।

परमब्रह्म की धर्मसेना,

चल रे, चल रे, चल।


ऊर्ध्व गगने शंखनाद, निम्ने शत्रु-दल।

कल्कि-राम की कल्कि-सेना,

चल रे, चल रे, चल।


आकाश-वायु प्रकम्पित कर,

प्रकम्पित कर जल-स्थल।

परमब्रह्म की धर्मसेना,

चल रे, चल रे, चल।

================

कल्कि-धर्मसेना-स्तोत्रम्

चल रे, चल रे, चल।

ऊर्ध्वे गगने पश्य कमलदलम्,

अधोऽशान्तं धरणीतलम्।

परब्रह्मणो धर्मसेना,

चल रे, चल रे, चल॥


ऊर्ध्वे गगने शङ्खनादः,

अधः स्खलति शत्रुदलम्।

कल्किरामस्य दिव्या सेना,

चल रे, चल रे, चल॥


आकाशवायूः प्रकम्पय त्वम्,

कम्पय स्थलं च जलम्।

परब्रह्मणो धर्मसेना,

चल रे, चल रे, चल॥



श्रीकल्कि अवतार स्तोत्रम्

ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।

भैषणं भद्रं मृत्युमृत्युं कल्किरूपं नमाम्यहम्॥


ॐ उग्रं वीरं प्रलयविष्णुं ज्वलन्तं सर्वतोमुखम्।

भैषणं भद्रं मृत्युमृत्युं अनन्तरूपं नमाम्यहम्॥


ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।

भैषणं भद्रं मृत्युमृत्युं कल्किरामं नमाम्यहम्॥


ॐ उग्रं वीरं अनन्तविष्णुं ज्वलन्तं सर्वतोमुखम्।

भैषणं भद्रं मृत्युमृत्युं कल्क्यनन्तं नमाम्यहम्॥


सर्वेश्वर-स्तोत्रम्  

त्वमेव ईश्वरः परमेश्वरः त्वमेव,त्वमेव मार्गदर्शी सत्यमित्रं त्वमेव।

त्वमेव विद्या द्रविणं त्वमेव,त्वमेव बुद्धिः ज्ञानं त्वमेव॥


त्वमेव बाल्यं प्रबोधनं त्वमेव, त्वमेव तारुण्यबलं त्वमेव।

त्वमेव वृद्ध्यां शरणं त्वमेव, त्वमेव नित्यं मम देव देव॥


त्वमेव नयनं मम दीपकं त्वमेव, त्वमेव हृदयं च आत्मा त्वमेव।

त्वमेव दैन्यं करुणा त्वमेव, त्वमेव नित्यं मम देव देव॥


त्वमेव शान्तिः परमानन्द एव, त्वमेव सत्यं परमं त्वमेव।

त्वमेव जीवनं मरणं त्वमेव, त्वमेव नित्यं मम देव देव॥


त्वमेव ध्यानं जपपूजनं त्वमेव, त्वमेव देवो जगदीश्वरो त्वमेव,

त्वमेव  मुक्तिर्मम मोक्षदाता त्वमेव, त्वमेव नित्यं मम देव देव॥

फलशृत्तिः

यस्संप्रयत्नं पठते नरः श्रद्धया, भक्त्या समन्वितमिदं स्तवं हृदि।

लभेत स सौख्यं परमं च कल्याणं, सर्वेश्वरस्य प्रसादसिद्धिः॥

श्रीजगन्नाथस्तोत्रम्

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥

Dhyānaślokaḥ

परब्रह्म आदि देवं शङ्खचक्रगदाधरम्।

 पीताम्बरधरं शान्तं स्मरामि श्री जगन्नाथं ॥

श्रीजगन्नाथस्तोत्रम्

यतः अनन्तशक्तिः, अनन्ताश्च जीवाः।
यतः निर्गुणात् अप्रमेयाः गुणाः।
यतः भाति सर्वं त्रिधा भेदभिन्नम्।
सदा तं जगन्नाथं नमामो भजामः॥


यतः च अविरासीद् जगत् सर्वमेतत्।
तथा अब्जासनः, विश्वगः, विश्वगोप्ता।
तथा इन्द्रादयः देवसंघा मनुष्याः।
सदा तं नारायणं नमामो भजामः॥

यतः अग्निः वायुः भानुः भूश्च भवः।
यतः सागरः जलं चन्द्रमा व्योम।
यतः स्थावराः जङ्गमाः वृक्षसंघाः।
सदा तं नारायणं नमामो भजामः॥

यतः दानवाः किन्नराः यक्षसंघाः।
यतः चारणाः पन्नगाः च व्योमगाः।
यतः पक्षिणः कीटाः यतः वीरुधः।
सदा तं नारायणं नमामो भजामः॥


यतः बुद्धिः अज्ञाननाशः मुमुक्षुः।
यतः सम्पदः भक्तसन्तोषिकाः स्युः।
यतः विघ्ननाशः यतः कार्यसिद्धिः।
सदा तं नारायणं नमामो भजामः॥


यतः पुत्रलाभो यतः वाञ्छितार्थः।
यतः अभक्तविघ्नाश्च नानारूपाः।
यतः शोकमोहकामाः विनष्टाः।
सदा तं जगन्नाथं नमामो भजामः॥

यतः अनन्तशक्तिः, स शेषः बभूव।
धराधारणे, अनेकरूपे प्रबुद्धः।
यतः अनेकधा स्वर्गलोकाः विचित्राः।
सदा तं जगन्नाथं नमामो भजामः॥

यतः वेदवाचः विलीयन्ति सर्वाः।
विकुञ्ठा मनोभिः निरुद्धाः प्रपन्नाः।
परब्रह्मरूपं च चिदानन्दजातम्।
सदा तं जगन्नाथं नमामो भजामः॥
💓

॥ इति श्रीजगन्नाथस्तोत्रं सम्पूर्णम् ॥

श्रीजगन्नाथ-स्तोत्रम्

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥
ध्यानम्
शान्ताकारं जगन्नाथं नीलोत्पलदलद्युतिम् ।
सुपिच्छमुकुटालङ्कं स्मितवक्त्रं सुकेशवम् ॥

वेणुनादामृतरसं रसिकेन्द्रं कृपानिधिम् ।
भजामि भक्तवत्सलं नयनजघनागतम् ॥


स्तोत्रम्

भजे श्रीजगन्नाथं सकलाघविनाशकम् ।
स्वभक्तमानसाम्भोज-भास्करं श्रीनारायणम् ॥ १ ॥

सुपिच्छगुच्छमस्तकं सुनादवेणुवादिनम् ।
अनङ्गलीलासागरं प्रणाम्येऽहं जगन्नथम ॥ २ ॥

मनोजमानदर्पहं विशालनीललोचनम् ।
विधूतगोपविप्रदुःखं वन्दे पद्मलोचनम् ॥ ३ ॥

कराम्बुजे गिरिधरं स्मितावलोकसुन्दरम् ।
महेन्द्रमानभञ्जनं प्रणाम्ये श्रीनारायणम् ॥ ४ ॥

कदम्बकुसुमाङ्कुरैः सुशोभितोरुकुण्डलम् ।
भक्तैकमानसोल्लासं वन्दे हरिदुर्लभम् ॥ ५ ॥

सदैव पादपङ्कजं मदीयमानसे स्थितम् ।
विभाव्य मुक्तमालिनं प्रणाम्ये नन्दनं हरिम् ॥ ६ ॥

समस्तदोषशोषणं समस्तलोकपोषणम् ।
समस्तभक्तमानसं प्रणमामि जगन्मयम् ॥ ७ ॥

भुवोभरावतारकं भवाब्धेः पारकारकम् ।
बालरूपधरं हर्षात् प्रणाम्ये मन्मदम् ॥ ८ ॥

दृगन्तकान्तिविभ्रमत् सदा सहस्रसंगिनम् ।
नवीनरूपसुन्दरं प्रणमामि हृदयेश्वरम् ॥ ९ ॥

१०
गुणाकरं सुखाकरं कृपाकरं करुणापरम् ।
सुरारिदर्पशमनं वन्दे श्रीजगन्मयम् ॥ १० ॥

११
नमाम्यनाथबन्धुं तं प्रसन्नभानुशोभनम् ।
निकामकामकल्पद्रुं दृगन्तमन्मथालयम् ॥ ११ ॥

१२
रसालवेणुनिनदं प्रणम्य विश्वनायकम् ।
व्रजाङ्गनाजनाश्रयं सुधीरमञ्जुवेषभृत् ॥ १२ ॥

१३
किशोरवपुषा शोभिनं दृगञ्जनप्रभावितम् ।
गजेन्द्रमोक्षणं प्रभुं नमामि नित्यमच्युतम् ॥ १३ ॥

१४
यदा तदा यथा तथा तथैव हरिकथाऽमृतम् ।
मया सदा गीयतां कृपां कुरु जगन्नाथ मे ॥ १४ ॥

💓


सच्चिदानन्दरूप परमब्रह्म स्तोत्रम्

Sloka 1
यः सत्यं धर्म एवायं सच्चिदानन्द एव च।
स देवः सर्वभूतानां आदिदेवः सनातनः॥
यः सृष्टिस्थितिसंहर्ता सर्वजन्मप्रदः प्रभुः।
स एव नारायणो देवः परब्रह्म सनातनः॥

Sloka 2
यः ज्योतिरिव तेजस्वी परमशान्तिमत्कृत्।
सर्वविद्यानिधानं च स नित्यं परं पदम्॥
यः पूर्णः सर्वकोशेषु व्याप्तः सर्वत्र नरैः।
स एव भगवाञ्छक्तिर्नारायणो परमेश्वरः॥

Śloka 3
यः प्रपञ्चमधारः सृष्ट्या पालनसंहारयोः।
सर्वेन्द्रियनिग्रहाकरः स नित्यमरोगीशः॥
यः सर्वात्मा च पुरुषः स एव ब्रह्मलोचरः।
स नारायणो देवोऽयं परमो धर्मात्मनि॥

Sloka 4
यः कमलनयनः प्रवृज्य मामपि भवेत्किल।
सर्वेषां हितकारकः प्राणिनां च पर्यायतः॥
यः भक्तानां सहायतारः शरणागतवत्सलः।
स एव नारायणस्त्रिभुवननाथो जगत्पतिः॥

Sloka 5
यः वेदान्तशास्त्रार्थज्ञः सर्वफलपरिग्रहः।
नित्यं धर्मसंस्थापकः शरणं मामिह प्रदेहि॥
यः सत्त्वसम्पन्नः सर्वज्ञः सर्वज्ञः सनातनः।
स नारायणो देवोऽयं जगन्नाथो महेश्वरः॥

Sloka 6
यः प्रभाकरो जगतः सूर्यसदृशो दिवाकरः।
सर्वलोकनाथः सन्निधेर्विभुवनविग्रहम्॥
यः मोक्षदाता मुक्तिप्रदः सर्वभूतहितं जनः।
स एव नारायणश्चैव सर्वशक्तिमय एव च॥
परमगुरुः गुरुः गुरुः शक्तिः ।
(गुरु-तत्त्व)
(मुक्तछन्दः)

परं ज्योतिः परं ब्रह्म स एव परमगुरुः।
स एव परमशक्तिः तस्यांशः हि श्रीगुरुः॥

परब्रह्मणि प्रेम श्रद्धा चैव सम्बलम्।
स एवेश्वरशक्तिः श्रीगुरोः परमं बलम्॥

छायाज्योतिः अबाधा साधनाशक्तिः।
यस्य मध्ये वर्तते स लभते श्रीशक्तिम्॥

यः लभते परमगुरोः दिव्यां चेतनां शक्तिम्।
स एव हि ब्रह्मांशः स एव अमोघशक्तिः॥

टीका
यः जगतः नाथः स एव श्रीजगन्नाथः।
 तेन सह एकीभूतो यो गुरुः,
स एव सर्वजगतां गुरुः- 
जगद्गुरुरिति प्रसिद्धः।
अबाधा = unhindered / unobstructed


मातृ शक्तिस्तवनम्।
त्वमेव जगन्माता ,अनन्तशक्तिस्वामिनी।
त्वमेव आदिमाता प्रकृतिः सर्वहितप्रदायिनी॥

त्वमेव लक्ष्मीः ,ऐश्वर्य-समृद्धि-प्रदायिनी।
त्वमेव पुष्टि , बल-पोषण-शक्ति-प्रदायिनी।

त्वमेव सरस्वती, विद्या-ज्ञान-प्रदायिनी।
त्वमेव कान्तिः , श्री-आभा-तेज-प्रदायिनी।

त्वमेव कीर्तिः , यश-प्रतिष्ठा-प्रदायिनी।
त्वमेव तुष्टि , वैराग्य-संतोष-शांति-प्रदायिनी।

त्वमेव इला , पृथ्वी-शक्ति-स्वामिनी संधिनीरूपिणी,
भक्तानां पालनं पोषणं च मुक्तिमोक्षमार्ग-प्रदायिनी॥

त्वमेव ऊर्जा , लीला-सृजन-क्रियाशीलता-प्रदायिनी।
त्वमेव विद्या ,ज्ञान-विद्या-प्रदायिनी।

त्वमेव अविद्या , माया-बन्धन-प्रदायिनी।
त्वमेव माया , जगत्-स्थिति-विस्तार-कारिणी।

त्वमेव आह्लादिनी , परम-आनन्द-प्रदायिनी।
त्वमेव संवित्-शक्ति ,अनुभूति-शक्ति-प्रदायिनी।


त्वमेव बिमला, त्वमेव ज्ञाना, त्वमेव उत्कर्षणी,  
त्वमेव क्रिया, त्वमेव प्रीहि, त्वमेव योगा रूपिणी,
  
त्वमेव सत्या, त्वमेव ईशाना, त्वमेव अनुग्रहानी।
त्वमेव सर्वा परमात्मिका , सर्वहित-प्रदायिनी॥

महालक्ष्मी–स्तोत्रम्
ध्यानम्
ॐ कमलासने कमलमुखि कमलदलनेत्रे कमलाय।
श्रीं जगन्मातृं महालक्ष्मीं भक्त्यास्माद् वन्दे नमोऽस्तु ते॥

स्तोत्रम्
ॐ श्रीं लक्ष्मीं धनधान्यसंपदा सौभाग्यचारिणीम्।
सौन्दर्यं परमं देविम् विष्णोः पद्मरश्मिभासिनीम्॥

मत्प्रियां विष्णुपत्नीं च महामोहिनीं महादेवीं।
महालक्ष्मीं नमामि तां सर्वसंपदाप्रदायिनीम्॥

नारायणाङ्गसम्भूतां विष्णोः शक्तिं सनातनीम्।
सौभाग्यसौन्दर्ययुतां महालक्ष्मीं  महादेवीं॥

आदिलक्ष्मी, धनलक्ष्मी च धान्यलक्ष्मी च पूजिताः।
गजलक्ष्मीं सन्तानलक्ष्मी च वीरविज्ञानस्वरूपाः॥

विजयलक्ष्मीं विद्यालक्ष्मीं प्रकृतिं जगदम्बिकाम्।
सर्वसम्पत्प्रदां देवीं नमामि श्रीमहालक्ष्मीम्॥
💓

 पञ्चदेवस्तोत्रम्

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥


जगन्नाथं बलभद्रं च प्रद्युम्नं च अनिरुद्धम्।

परमात्मिकां प्रकृतिं च सृष्टेः पञ्चदैवतानि प्रथमम्॥


जगन्नाथ पदाम्भोजं शरण्यं भक्तवत्सलम् ।

भजन्ति ये मुदा नित्यं तरन्ति भवसागरम् ॥


बलभद्रं महावीर्यं प्रद्युम्नमतिसुन्दरम् ।

अनिरुद्धं च देवेशं वन्दे हृदयनन्दनम् ॥


जगन्मातरमाद्यां तां प्रकृतिं विश्वधारिणीम् ।

यस्याः शक्तिप्रभावेण विभाति विश्वसमूहम् ॥


पञ्चात्मानो महात्मानो नित्यरूपाः सनातनाः ।

येषां तेजोविकासेन प्रकाशन्ते जगत्समूहाः ॥


जगत् बन्धुः जगन्नाथः स्वेच्छया सृजति जगत् ।

पालयत्यखिलं विश्वं संहरत्यन्तकाले तत् ॥


सृष्टिस्थित्यन्तकर्ता तं कारणानां परं प्रभुम् ।

भजामि भक्तिभावेन जगन्नाथं सनातनम् ॥

💓

श्रीविष्णोः शताष्टकं नामस्तोत्रम् 

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥

ध्यानम्।

शान्तं शाश्वतमव्यक्तं नित्यं विष्णुमनाश्रितम् ।

अनन्तरूपमद्वैतं सर्वकारणकारणम् ॥


स्तोत्रारम्भः।

नमोऽस्तु नारायणाय विश्वस्याधारकारिणे ।

भक्ताभीष्टप्रदातारं वन्दे विष्णुं सनातने ॥


नाममाला

श्रीकृष्णः केशवः कान्तः पद्मनाभोऽगोपतिः प्रभुः ।

नारायणो मधुरिपुर्वैकुण्ठो मधुसूदनो मुदा ॥


गोविन्दो गोकुलेशश्च दामोदरः जनार्दनः ।

परं ज्योतिरच्युतो देवः पुरुषोत्तम ईश्वरः ॥


अनन्तः शङ्खपाणिश्च ब्रह्माण्डाधिपतिर्बलः ।

वरदः शार्ङ्गपाणिश्च जगन्नाथो जगद्गुरुः ॥


धर्माध्यक्षो वत्सलश्च शीलवान्भक्तवत्सलः ।

वसुदेवो हरिः सर्वात्मा हरिहारः सुसत्त्वलः ॥


सर्वज्ञः सर्वभूतात्मा प्रद्योतकः शुभाङ्गलः ।

गोपीजनवल्लभो नित्यं शान्तः परात्परः प्रभुः ॥


सुमेधाः सुगुणी धीरः ज्ञानधनः सर्वशक्तिमान् ।

सुरश्रेष्ठः पद्मनाभो हृषीकेशः प्रभोत्तमः ॥


दयानिधिर्विष्णुरीशः ब्रह्माम्बुधिमदायकः ।

विश्वसृष्टिकरो देवः शैलाध्यक्षो दयालयः ॥


अच्युतोऽथ सहस्रशीर्षा कपिलो गुरुरव्ययः ।

सर्वात्मा सर्वदेवेशो विष्णुः प्रभुरनन्तयः ॥


स्वयम्भूः शुभ ईशानो विश्वनाथः कृपासरः ।

सद्गुणप्रद ईशानो धर्मसंस्थापकः शुचिः ॥


योगी वेदोत्तमश्चैव भक्तवत्सल कल्याणदः ।

कृष्णः श्यामः मधुरो देवो भवमोहे च हितो हरिः ॥


कैलासनाथो नृहरिः वीर्यवान् शरणान्तरः ।

नित्यानन्दो निर्मलो व्योमगो विश्वनाथकः ॥


समर्थः शरणागतानां दाता भक्तमनोरमः ।

अर्जुनप्रियः पाण्डवात्मा जगन्नाथः परप्रभुः ॥


रामो धर्मप्रवर्ता वै सीतापतिः सदाश्रयः ।

भक्तवत्सलः सर्वकरो दैत्यानाशकरो हरिः ॥


भूतभव्यो भवेशानो सर्वलोकनिवासकः ।

सर्वभूतहितैषी नित्यं सद्गुरुः हरिरेव च ॥


सर्वज्ञः सर्वेश्वरश्च शरणागतवत्सलः ।

सत्यव्रती वचनप्रियः पद्मनाभो जगद्‌पतिः ॥


परमात्मा जगत्स्वामी शाश्वतो हरिरच्युतः ।

गोविन्दो हरिकृष्णश्च सुन्दरः सुधया युतः ॥


गोपीनाथो दामोदरः जीवनाधारसुन्दरः ।

सर्वभवविनाशकश्च शान्तः पद्मनाभहरिः ॥


वासुदेवः पुरुषोत्तमः सर्वप्राणप्रियः प्रभुः ।

अनन्तरूपः सत्प्रज्ञः श्रीहरिः स्मरणोचितः ॥


सच्चिदानन्ददेवेशः सर्वलोकनयोदयः ।

परमेशः शाश्वतो नित्यं भक्तवत्सल एव हि ॥


अनन्तविभुतिं धत्ते शरणागतहितैषिणः ।

विष्णुर्दयासागरः श्रीमान् पद्मनाभो जगद्गुरुः ॥


सुरप्रियः गोपीनाथो दामोदरः सुशीलवान् ।

हरिः सर्वकरो नित्यं भक्तपालनतत्परः ॥


हरिदत्तः प्रसन्नात्मा शरणागतविनाशकः ।

वासुदेवो सदानुरक्तश्च श्रीधरः सर्वशक्तिमान् ॥


चतुर्भुजः शार्ङ्गधारी सत्यवाक्यप्रकाशकः ।

विष्णुर्नमो नमस्तेऽस्तु जगन्मोहनमानदः ॥


प्रभाकरः सुरेशश्च लोकनाथो जनप्रभुः ।

श्रीहरिः श्रुतिपूज्यश्च शान्तः भक्तप्रियः सदा ॥

💓

इति श्रीविष्णोः शताष्टकं नामस्तोत्रं सम्पूर्णम् ॥

सरस्वती–स्तोत्रम् ।

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥


ध्यानम्

शुक्लां ब्रह्मविचाररूपिणीमम्बां वीणापुस्तकोज्ज्वलाम्।

हंसारूढां कमलासनां चिरस्मेरां सरस्वतीं भावयेत्॥


स्तोत्रम्


(१)

विष्णोर्जिह्वाग्रबिन्दोत्थां ब्रह्मचिन्तानुसारिणीम्।

लक्ष्मीपार्वत्यधिष्ठात्रीं सरस्वतीं नमाम्यहम्॥


(२)

शुक्लवर्णां च वीणां च पुस्तकाक्षमलाधराम्।

पीतवस्त्रां च वेण्याढ्यां हंसारूढां नमाम्यहम्॥


(३)

श्रद्धारिद्ध्यादिसम्पन्नां कला-मेधा-प्रदायिनीम्।

तुष्टिपोष्टिप्रभास्मृत्या युक्तां वाग्देवीं भजे सदा॥


(४)

पञ्चाशद्वर्णसंयुक्तां बागीश्वर्यस्वरूपिणीम्।

त्रिलोकज्ञानसम्पूर्णां ध्वनिरूपां नमाम्यहम्॥


(५)

ज्ञानदा रामदा विद्या जगद्भारहराम्बिका।

त्रिदेवीं महाबोधितां वन्दे सस्मितमन्दिराम्॥


💓



सरस्वती-स्तोत्रम्

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥


(Sarasvatī-Stotram)


ध्यानम्


श्वेतवर्णां चतुर्बाहुं वीणापुस्तकधारिणीम्।

हंसवाहनसंयुक्तां वन्दे त्वां सरस्वतीम्॥


स्तोत्रम्

ॐ ऐं ह्रीं क्लीं महासरस्वत्यै नमः।


या कुन्देन्दुतुषाराभा या श्वेतहंसवाहना।

या वीणापुस्तकधरा तां वन्दे ज्ञानदायिनीम्॥ 


विश्वेश्वरीं जगन्मातरं वाग्देवीं वरदां शुभाम्।

सर्वविद्याप्रदां देवीं नमामि भारतीं शुभाम्॥ 


ॐ ऐं ह्रीं क्लीं महासरस्वत्यै नमः।


मूढबुद्धिं प्रकाशय ज्ञानदीपं प्रज्वाल्य मे।

मम चित्तं प्रसादेन पावयस्व सरस्वति॥ 


शुक्लवस्त्रां शुक्लवर्णां शुक्लपद्मासने स्थिताम्।

हंसारूढां चतुर्बाहुं प्रणमामि सरस्वतीम्॥ 


ॐ ऐं ह्रीं क्लीं महासरस्वत्यै नमः।


प्रणवस्वररूपां तां मङ्गलां शुभदां भद्राम्।

मूकानां कवितां दात्रीं नमस्तस्यै नमो नमः॥


ज्ञानं मे देहि देवि स्मृतिं मे देहि शुभाम्।

भुक्तिं मुक्तिं च मे देहि प्रसन्ना परमेश्वरी॥ 

💓



सरस्वती वन्दना

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥

सरस्वति शारदे देवि, शुद्धसत्त्वस्वरूपिणि।

हृदि मे प्रकटस्वाद्य, वागीशि हंसवाहिनि॥


कविवाक्यं सुधामिश्रं, त्वत्प्रसादेन जायते।

अज्ञानतमसो हरे, ज्ञानरश्मिं प्रयच्छ मे॥


वीणापुस्तकहस्ताभ्यां, शोभसे जगतां धृति।

मोहजालं छिन्ध्याश्चित्ते, चिन्मार्गे नय मे वृत्ति॥


शान्तिरूपे सुखस्नेहे, सर्वविद्याप्रवर्तिनि।

भक्ति-बुद्धि-समृद्ध्यर्थं, त्वां नमामि वीणापाणि॥


वरदां सततं नित्यां, स्फटिकाभां सरस्वतीम्।

प्रणमामि सदा भक्त्या, भक्तानुग्रहकारिणीम्॥


सरस्वति वरदे देवि, ज्ञानमये मुनिपूजिते।

वाक्पटुतां प्रदेहि त्वं, अज्ञानं नाशयाशु मे॥


लक्ष्मी-वन्दना

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥

शुक्लाम्बरधरां देवीं पद्मासनगतान् शुभाम्।

चतुर्भुजां महालक्ष्मीं ध्यायामि वरदायिनीम्॥१॥


शान्तां सौम्यां सरस्वत्याः सहचारिणीं शुभाम्।

श्रींकाररूपिणीं देवीं वन्देऽहं सर्वमङ्गलाम्॥२॥


पद्महस्तां पद्मनेत्रां पद्ममाल्यविभूषिताम्।

पद्मप्रियां पद्मनिलयां वन्देऽहं कमलालयाम्॥३॥


या देवी सर्वभूतेषु मातृरूपेण संस्थिता।

या देवी धनोंपेता या देवी श्रद्धया स्थिता॥४॥


सौख्यं ददातु मे नित्यं मोक्षमार्गप्रदर्शिनी।

दारिद्र्यं दुःखमायासं हारयाशु नमोऽस्तु ते॥५॥


शुक्लाम्बरधरां देवीं पद्मासनगतान् शुभाम्

लक्ष्मी-वन्दना


लक्ष्मी-वन्दना

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥

पद्मासना पद्महस्ता पद्मनेत्रा मनोहरा।

पद्ममालाधरा नित्यं पद्मवाससमन्विता॥१॥


श्रींकाररूपिणी शुभ्रा शान्ता सौम्या सनातनी।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२॥


दारिद्र्यदुःखशमनां सौख्यसम्पत्प्रदायिनीम्।

भक्तिप्रदां च बुद्धिं च मोक्षमार्गप्रदर्शिनीम्॥३॥


या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥४॥


सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।

सर्वदुःखप्रशमनं श्रीं लक्ष्मीं पद्मनाभम्॥५॥


धनधान्यसमृद्धिं च दीयादसर्वदा मम।

सर्वलोकहितकाम्यां भवतु मे सकाश्मिरे॥६॥


संकटहरिण्यं देविं महालक्ष्मीं महादेव्याः।

ध्यानं स्मरन्नित्यं देहि भक्तानां मद्विभूषिताम्॥७॥

महामाया-स्तोत्रम्


ॐ श्रीगुरुभ्यो नमः । हरिः ॐ ॥

स्तोत्रम्

त्वं मातृशक्तेः स्रोतः, त्वं मातृशक्तेः शक्तिः।
त्वं नारीशक्तेः स्रोतः, त्वं सन्तानपोषिणी शक्तिः॥

त्वं ब्रह्मशक्तिरूपा ब्रह्माणि, महामाया आदिदेवी।
त्वं निर्मलकुमारिरूपा, महाक्रोधा परमेश्वरी॥


त्वं उग्रा महादेवी, जपामालाविभूषिता।
त्वं तमोमयी नियतिः, त्वं चण्डिका परमा स्मृता॥


त्वं अम्बिके वैष्णवि चापि, महागौरी च कौशिकी।
त्वं कात्यायनि कमले, त्वं ललिते भुवनेश्वरि ॥


त्वं दशमहाविद्यारूपा, कालीनाम्ना प्रसिद्धा।
त्वां नमामि महादेवि, बहुरूपे विराजिता॥


त्वमेकैव महाशक्तिः, नानारूपेण संस्थिता॥
त्वम् अनन्तशक्तिसम्पन्ना, मायाशक्तिः परा स्मृता॥


त्वं भक्तहृदयमध्ये नित्यं, नार्याश्चाङ्के विराजसे।
त्वं ब्रह्मणो वाणीस्वरूपा, देवशक्तिर्निरूपिता॥


त्वं भयत्रासहरा देवि, भक्तानुग्रहकारिणि।
त्वं जपमालाधरा नित्यं, त्राहि मां चण्डिकेश्वरि॥


त्वं दुर्गा दुर्गतिनाशाय, कालिके कालविग्रहे।
त्वं तारिणि तारकत्राणे, त्राहि मां तारिणि शुभे॥

त्वं भुवनेशि जगन्माते, महालक्ष्मि नमोऽस्तु ते।
त्वं कृपया पाहि मां नित्यं, मायामोहनिवारिणि॥
💓



दशमहाविद्या–स्तोत्रम्

ॐ श्रीगुरुभ्यो नमः । हरिः ॐ ॥

ध्यानम्

त्रिनेत्रां जपामालां च, कृपामयीं करालिनीम्।
दशविद्यारूपिणीं देवीं, ध्यायामि परमेश्वरीम्॥

स्तोत्रम्

१. काली
जय काली महाकाली कालिके परमेश्वरी।
त्वं काली करालवदना, जपामालाविभूषिणी।

२. तारा
त्वं तारा तारकसङ्घानां, रक्षां परमकारिणि।
त्वं नीलोत्पलश्यामा च, प्रणमाम्यहं तारिणि॥

३. षोडशी / त्रिपुरसुन्दरी
त्वं षोडशी त्रिपुरसुन्दरी, षट्चक्रस्थितिवासिनी।
त्वं विद्यात्रयसङ्गता, प्रणमाम्यहं सनातनि॥

४. भुवनेश्वरी
त्वं भुवनेश्वरी जगन्माते, विश्वधात्रि सनातनि।
त्वं मायारूपिणि देवि, नमामि परमेश्वरि॥

५. भैरवी
त्वं भैरवी भयनाशाय, क्रोधरूपे दयान्विते।
त्वं उग्रशक्तिसमा देवि, वन्दे सिद्धिप्रदे मातृरूपे॥

६. छिन्नमस्ता
त्वं छिन्नमस्ता महाभीमा, खड्गखेटधराञ्चले।
स्वशिरश्छेदनरता देवि, वन्दे भीषणरूपे॥

७. धूमावती
त्वं धूमावती जर्जराङ्गी, दारुणे करुणान्विते।
त्वमविद्यानाशिनी देवि, वन्दे परमेश्वरिरूपे॥

८. बगलामुखी
त्वं बगलामुखि महाशक्ते, शत्रुवाक्स्तम्भकारिणि।
त्वं पीताम्बरधरा देवि, नमामि परमेश्वरि॥

९. मातङ्गी
त्वं मातङ्गि मधुरालापे, कलाविद्यास्वरूपिणि।
त्वं वीणावादनरता नित्यं, वन्दे त्वां विद्याप्रदां मातङ्गिनी ॥

१०. कमला
त्वं महाविद्या प्रकृतिसम्भूता, सर्वलोकहितेश्वरी।
त्वं श्रीसमृद्धिदा नित्यं, नमामि जगज्जननि॥


💓💓

काली–माता–स्तोत्रम्।

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥

स्तोत्रम्

जय काली महाकाली कालिके परमेश्वरी।
संसारदुःखनाशाय भक्तानां मातेश्वरी ॥

घोररूपे महाकालि दिगम्बरे करालिनि।
जपामालाधरायै नित्यं नमस्ते भयहारिणि॥

त्रिनेत्रे करालवदने चण्डचामुण्डविनाशिनि।
शरणागतपालिनि त्वं त्राहि मां शक्तिरूपिणि॥

सृष्टिस्थितिलयानां त्वं कारणं शक्तिरूपिणि।
अनाद्यन्ते नमस्तुभ्यं कालिके भयहारिणि॥

जय काली महाकाली कालिके परमेश्वरी।
त्वं काली करालवदना, जपामालाविभूषिणी।

जय काली महाकाली कालिके परमेश्वरी।
संसारदुःखनाशाय भक्तानां श्री मातेश्वरी ॥

जीवन-नाट्य-स्तोत्रम्


नाटकमिदं मनुष्याणां जीवनं क्षणभङ्गुरम् ।

पात्रं गृह्णाति नरः कश्चित्, स्त्री च धर्मं समाचरेत् ॥


भूमिरेषा जगन्माता यत्र जीवाः प्रतिष्ठिताः ।

जन्ममृत्युसमायुक्तं सुखदुःखसमन्वितम् ॥


जगन्नाथो महाराजो नाटकेशोऽमराधिपः ।

सर्वं नियुञ्जते गूढं जगत्स्थापनकारकः ॥


सृष्टौ पटलोत्थानं दृश्यते स्थितिरद्भुतम् ।

संहारः सम्प्लवः प्रायः, शाश्वतः शेष एव हि ॥


तस्मात् भवन्तः सर्वेऽत्र भावैः प्रेम्णा समाचरन् ।

समाप्तौऽपि जगत्सर्वं स्थितो नाथः स शाश्वतः ॥

 💗

महत्त्वसत्योपदेशः

(ज्ञानकर्मसत्यसूक्तम्)

ज्ञानी मनोयोगेन शृणु एतत् महत्त्वसत्यं।

ईश्वरस्य इच्छया एषा सृष्टिरेव एकं सत्यम्।


यथेह दिनस्य पश्चात् रात्रिरागताऽयम् निश्चितम्,

तद्रूपं युगस्य पश्चात् युगमागतं तदपि निश्चितम्॥


युगादारभ्य पूर्वम् ईश्वरलिखितं सर्वयुगकर्मधर्मम्।

सर्वजीवस्य क्रियाकर्मजन्ममृत्युसुखदुःखम्॥


यत्तव भाग्ये लिखितं तदेव भविष्यति निश्चितम्,

तस्मात् तत् विषये किमर्थं शोचसि ज्ञानीयुत्तम॥


त्वं यथैवैकाकी आगतः तथा चैकाकी गन्ता।

स्नेहिनश्च मित्राश्च केवलं मार्ग एव दृश्यन्ते तथा॥


एतानि वचांसि चिन्तयित्वा निष्कामं कर्म कुरु ज्ञानी,

सर्वाणि धर्मक्रियाकर्माण्य् ईश्वराय समर्पय कुरु दानी॥


एतत् क्रियाकर्मधर्मपालनानन्तरं निश्चिन्तो भव महाज्ञानी।

इदानीं ईश्वराय तस्य कर्म कर्तुं ददातु निश्चिन्तचित्तः प्रियदानी॥

अहङ्कारक्षयः- सत्योदयः 

अहं सदा सम्यगस्मीति वदति मम चेतनम्,

अन्ये सदा तमोलीना इति पश्यामि मानसम्।


अस्वीकारः पिधत्त्येव सत्यद्वारं ममोपरि,

अहङ्कारः दृढः पाशः बध्नाति मां निरन्तरि॥


अहङ्कारदुर्गे उन्नते तिष्ठामि गर्वभूषणः,

सर्वप्रकाशं त्यजाम्येव मूढबुद्धि–विभूषणः।


कृपा तु भिनत्ति गर्वस्य कठोरं बन्धनं ध्रुवम्,

विनयेन द्रवते चेतः शिलावत् जायते मधुरम्॥


विनम्रदृष्ट्या विश्वं पश्यामि समतां श्रयन्,

समर्पणेन हृदयं याति काञ्चनतां पुनः श्रयन्।


गच्छतु गर्वः, करुणा उदेति सर्वबन्धनी,

एकत्वे विनये सत्ये शान्तिर्जायते सनातनी॥


सर्वहृदि वसतं दिव्यं तत्त्वं प्रेम्णा वयं विद्महे,

निःस्वार्थस्नेहयोगेन एकात्मभावं च गच्छ्महे।


अहङ्कारात् परे शुद्धः आत्मा नित्यः प्रकाशते,

साधकः तत्र विलीयेत, केवलं ब्रह्म प्रकाशते॥

जीवप्रार्थना-स्तोत्रम्।


अहं जीवात्मा सदा बन्धनेषु निरन्तरः।

मायाजालविमूढोऽयं नाथ मोहितमानसः॥


ये मे पूर्वजधर्मिष्ठाः सखायः स्मरन्ति माम्।

ते तव भक्ताः पूर्वं स्युर्नाथ तेषां हितं कुरु॥


तस्मात् कृपां प्रदद्याः त्वं तेषां मार्गं प्रशोभय।

कल्याणवृत्तिं नितरां कुरु तत्र प्रसादतः॥


अस्मिन् जन्मनि ये भक्ताः धर्ममार्गनिवर्तिनः।

तेषां चापि मम नाथ मङ्गलं साधय प्रभो॥


अज्ञानं मम नाशय त्वं ज्ञानभक्तिं च देहि मे।

सत्कर्मशक्तिं देहि च कृपां कुरु मयि प्रभो॥


भक्तवाञ्छितकल्पद्रुम करुणासिन्धोऽदयामय।

नमस्ते सर्वेश्वर दीनबन्धो दीननाथ महाप्रभो जगन्नाथ॥

जीवस्य अन्त्यप्रार्थना

मम साधोऽन्ततः क्षीणो, आशापि सुसमाप्तथा।

अन्ते सर्वं विनष्टं मे,नाथ त्वां शरणं यथा॥


जन्मऋणं समाप्नेयं, त्वामहं ह्वये नित्ययम्।

कोले गृह्णा मम दीनं, नाथ त्वं करुणासयम्॥


अस्मिन् लोके न कोऽप्यस्ति सत्यस्नेहपरायणः।

न कश्चनैव जानाति प्रेम्णो मार्गमनौरणः॥


यत्रैव शुद्धस्नेहस्य नित्यता मधुरानताम्—

तत्र गन्तुमिहेच्छामि, नाथ त्वां शरणागताम्॥


बहुदग्धः कष्टपीडो कामान् त्यक्त्वा विरक्ततम्।

महाज्वाला समासाद्य विस्मरन् सर्वसङ्गतम्॥


बहु रुदितवान् पूर्वं, न शक्नोम्यद्य रोधनम्।

भिन्नहृदयोऽहमेकाकी, नाथ त्वां शरणं व्रजनम्॥

💧

श्रीनारायण आरती

ॐ नमो नारायणाय, जगदीश प्रभो दयामय ।
भक्तजनार्तिहर्तारं, वन्दे त्वां करुणामयम् ॥

त्वमेव माता च पिता, त्वमेव शरणं मम ।
त्वमेव परमं ब्रह्म, त्वमेव हृदि संस्थितं ॥

दुःखदारिद्र्यनाशाय, भवभीतिविनाशाय च ।
भक्तानां मंगलदाता, नमस्ते पुरुषोत्तम ॥

करुणासागर देवेश, मां पालय कृपामय ।
अज्ञानतिमिरं हत्वा, भक्तिं मे हृदि वर्धय ॥

पापविकारसंहारिन्, दीनबन्धो परमेश्वर ।
भक्तिसेवाप्रदः त्वं, रक्ष मां जगदीश्वर ॥

ॐ जय देव जगन्नाथ, जय विष्णो सनातन ।
क्षणेन हर मे क्लेशान्, नमामि त्वां जनार्दन ॥

💧
 Shanti Mantras:
1.॥ श्लोकः ॥

पूर्णात् पूर्णं समुत्पन्नं
पूर्णात् पूर्णं न हीयते।
तस्मै पूर्णपरब्रह्मणे
प्रणामाः सृष्टयेऽखिलम्॥
सर्वेभ्यो नित्यनम्राणां
शान्तिर्भूयात् त्रिधा सदा॥
ॐ शान्तिः शान्तिः शान्तिः॥

Meaning:
2. 
॥ श्लोकः ॥

अङ्गानि मे वचः प्राणो
मनश्चाक्षुषश्रोत्रके।
बलं च सर्वेन्द्रियाणि
पवित्राणि प्रवर्धयेत्॥
तेनैवेश्वरसाक्षात्कारं
लभेयं भक्तिपूर्वकम्।
शान्तिः शान्तिः शान्तिश्च
भवत्वित्यभिवाञ्छितम्॥
ॐ शान्तिः शान्तिः शान्तिः॥
Transliteration:

3.
स नः पातु परं ब्रह्म
स नः पोषयतु प्रभुः।
सह वीर्येण तेजस्वि
कर्म कुर्मो हितं वयम्॥
अध्ययनं प्रकाशाय
भवतु ज्ञानवर्धनम्।
न द्वेषोऽस्तु परस्परं
सर्वेषां प्रीतिरस्तु च॥
सृष्टिं स्रष्टारमीश्वरं
प्रेम्णा संसपूजयाम॥
विद्या सृजनशीला स्यात्
शान्तिर्भूयात् त्रिधा सदा॥
ॐ शान्तिः शान्तिः शान्तिः॥

Meaning:

4.
॥ श्लोकः ॥

देवा यच्छ्रवणैः शुभं
दृश्यं पश्येम चाक्षुषम्।
आरोग्यबलसंयुक्ता
जीवेम देवगायनैः॥
त्वद्भक्तिं सर्वदेवेश
वितरामः प्रजास्वहम्।
त्वद्भावं संदेशं चैव
विश्रामयेम जगत्त्रये॥
सर्वेषां हितकाम्येन
शान्तिर्भूयात् त्रिधा सदा॥
ॐ शान्तिः शान्तिः शान्तिः॥
Meaning:

5.  
॥ श्लोकः ॥

असतो नः सत्पथं नय
तमसो नः प्रकाशय।
शोकात् प्रीत्यै सुखाय नः
विग्रहाद् शान्तिमावह॥
इत्याशां सर्वजीवानां
शान्तिर्भूयात् त्रिधा सदा॥
ॐ शान्तिः शान्तिः शान्तिः॥

6.
॥ श्लोकः) ॥

हे देव तमसो नः
प्रकाशं नय दीप्तिमान्।
निःस्वार्थे कर्मणि प्रभो
धर्मे चानुग्रहं विदेः॥

परान् बोधयितुं प्रेम्णा
रक्षितुं चानुकम्पया।
सुखदायित्वयोग्यान्नः
कुरुष्व त्वं दयानिधे॥

विग्रहस्यान्तकृत्यैव
शान्तिमावह सर्वदा।
शान्तिर्भूयात् जगद्धात्रि
ॐ शान्तिः शान्तिः शान्तिः॥
7.


ॐ शान्तिः 
वैष्णव-प्रार्थना-समर्पण-गीतम्



हे प्रभो वयं हि गृहिणः वैष्णव-भावना-अन्विताः,
त्वां भक्त्या प्रतिपद्येम प्रेम-हीन-जीविताः ॥

त्वत्-भक्ति-विरहः साक्षात् दुःसहः स्यात् त्वयि विना ।
त्वं नाथः परम-एकः स्यात्, न अन्यः दयालुः विना ॥

देव त्वं कुटुम्बम् अस्माकं मित्राणि च पालय,
सर्वान् भक्त-जनान् नित्यं स्व-कृपया अभिपालय ॥

विश्वासे दृढतां देहि शुद्धेन अन्तः-करणेन,
शान्तिं देहि जनानां च भूयात् शान्तिः सनातनी ॥

ॐ शान्तिः शान्तिः शान्तिः ॥
💗
नित्यं पुण्यभूमिं भारतम्

नित्यं पुण्यभूमिं भारतं दिव्यम्,
भगवान् अवतीर्यते भक्तसहितम्।
पवित्रपादरजःसिक्तधर्मधारा,
विश्वं प्रकाशति दीपः पुण्यप्रसारा॥

हरिहृदये श्रद्धा गभीरनभोमती,
धर्मः स्थिरः, वेदध्वनिं शृणोति।
ऋषिसन्तः पदचिह्नधूलिपूज्यं,
नित्यं पुण्यभूमिं भारतं शरणम्॥

गङ्गातरङ्गहिमालयशिखरस्थं,
भक्तिगीतं भवतु नित्यं भारतम्॥

धर्मदीपेन विराजति भारतं,
कालपरिवर्तनेऽपि नित्यं ध्रुवम्।
देशकालजात्यतीतं महत् सत्यं,
नित्यं पुण्यभूमिं भजत भारतं॥
💓
धरातले ईश्वर–अंशावतारयोः परिचयः।
न वदति भगवान् धरातले न भवति अवतीर्णः।
अवतरणात् पूर्वमेव शास्त्रेषु तस्यावतरणकथायाः भवति वर्णनम्।
अपि च तस्य शरीरे दिव्यचिह्नानि सन्ति विराजमानम्।
एतदेव सनातनधर्मे वर्णितम्, युगे युगे प्रतिपादितम्।


धरातले ईश्वर–अंशावतारयोः परिचयः।
न वदति भगवान्, धरातले न भवति अवतीर्णः।
अवतरणात् पूर्वमेव शास्त्रेषु तस्य अवतरणकथायाः भवति वर्णनम्।
अपि च तस्य शरीरे दिव्यचिह्नानि सन्ति विराजमानम्।
एतदेव सनातनधर्मे वर्णितम्, युगे युगे प्रतिपादितम्॥
श्रीकृष्णध्यानतत्त्वम्
(मुक्तछन्दः)
कं ध्यायेत् स परं तत्त्वं, यतः सूर्यचन्द्रमसौ।
नास्त्यन्यत्तत्त्वमुत्तुङ्गं, स्वात्मन्येव स संस्थितः॥

नास्त्यन्यो देवो ध्येयः, नान्यत् किञ्चित् परायणम्।
सर्वकारणभूतात्मा, स्वनाम्न्येव विलीयते॥

यथा गीता शास्त्रवरे, आत्मैव सन्निहितः सदा।
तथा भागवतेऽप्युक्तं, स्वात्मन्येवावतिष्ठते॥

निर्गुणं ब्रह्म यत् प्रोक्तं, तदेव स्वप्रकाशकम्।
नान्यत्तत्त्वं न भेदोऽस्ति, स एवैकः हरिः सत्यम्॥

ये तु भिन्नं परं मन्यन्ते, मोहिता अज्ञानवृत्तयः।
न जानन्ति शास्त्रार्थं, नापि बुध्यन्ते तत्त्वसारम्॥
💓
वेददृष्ट्या मूर्तिस्नानम्

न वेदमन्त्रेषु क्वापि दुग्धाभिषेको विधीयते,
न श्रुतिषु प्रतिमास्नानं स्पष्टतया प्रकीर्त्यते॥

नाग्निहोत्रेषु देवस्य दुग्धस्नानं प्रकाशितम्,
न सोमयागेषु तद्वाक्यं विधिरूपेण निर्दिष्टम्॥

अग्नये घृतधारास्तु वेदमन्त्रैः प्रदीयते,
सोमो यागेषु विधिना श्रद्धया प्रविधीयते॥

आपः शुद्ध्यै प्रशस्यन्ते मन्त्रशक्तिप्रबोधिताः,
सत्यं ब्रह्म सनातनं ऋषिभिः सम्प्रकीर्तितम्॥

न देवो दुग्धधाराभिः तुष्यति स्वमहिम्नि हि,
पूर्णस्य न किमप्यस्ति आवश्यकं कदापि हि॥

भक्त्या तु रूपकल्पनया प्रेमधारा प्रवर्तते,
तया जगदपि देवत्वं भावतः प्रतिपद्यते॥

वेदगीताभागवतगूढतत्त्वम्
(मुक्त–छन्दः)
वेदगीतात्वभागवतदर्शनम्

वेदमार्गो दर्शयति सनातनधर्मस्य साम्यदृष्टिम्।
ज्ञानकर्मभक्तिसंयुक्ता या तत्त्वैकस्य साधनम्॥

वेदाः प्रबोधयन्ति परात्मनः सत्यरूपम् ।
आत्मनः परं तदैक्यं च बोधयन्ति साक्षात्कारम्॥

गीता निःस्वार्थकर्मस्य विधिं मोक्षदायिनीं दर्शयति।
यया पुरुषस्य मोहितस्य बन्धनमुक्तिः सिध्यति॥

श्रीमद्भागवते दिव्यप्रेम्णः सौन्दर्यं हृदयं विशुद्धयति।
यया निष्कामकर्मधर्मविधिं मोक्षदायिनीं दर्शयति।

सा दर्शयति सम्यक् पूजां, न केवलं क्रियायाम्,
किन्तु निःस्वार्थकर्मभक्त्योः ऐक्ये परं ब्रह्मदर्शनम्॥


💓
संस्कृतज्ञानकाव्यम् - महिमा-तत्त्वम्

महिमा संस्कृतस्य-शब्दब्रह्मस्वरूपिणी।
धर्मशास्त्रस्य रक्षिणी सत्यस्य च प्रकाशिनी॥

तत्त्वं ब्रह्म पुनरुक्तं संस्कृतेऽनन्तसौष्ठवम्।
ध्वन्या सम्पूर्णकाव्येन हृदये शाश्वतं स्थितम्॥

काव्ये स्थितं ज्ञानमिदं न नश्यति कदाचन।
छन्दोबद्धं सुगमं स्मृतौ वहति मानवमानसम्॥

सन्धिना शब्दसंयोगोऽर्थानां सागरायते।
एकत्वेन प्रवहन्त्येव भावाः हृदि विराजन्ते॥

लयतालसमायुक्तं काव्यं हृदये प्रविशति।
स्वररूपेण सम्पूर्णं ज्ञानं चेतः प्रविशति॥

विनाशकालेऽपि यदा ग्रन्था यान्ति सङ्क्षयम्।
स्मृतिरूपे मन्दिरे तु सत्यवाणी न याति लयम्।

जीवन्नादः शास्त्ररूपो धारयत्येव तत्त्वतः।
काव्यमेव हि साधनं ज्ञानरक्षणकारणम्॥

संस्कृतं श्रेष्ठभाषा सा सन्धियुक्ता सुसंहतिः।
स्वयंपूर्णा प्रकाशेन विराजते  शब्दराशिः॥

हृदयाद् हृदयं याति सुलभं नित्यं ध्रुवम्।
धर्मशास्त्रस्य संरक्षणं सत्यस्य च प्रसारणम्॥

💓
स्वप्न-अनुभूति-विवेचनम्

शृणुत भक्तगणाः एतद् सनातन वचनम्।
स्वप्नः अनुभूतिश्च द्वयं अनिश्चितदर्शनम्।।

अप्रामाणिके भवति द्वयं महाविध्वंसकम्॥
प्रामाणिके भवति द्वयं परमसुखप्रदम्॥

उपर्युक्तकारणानां दृष्ट्या क्रियेत विवेचनम्।
अप्रमाणितसूचनानां न कुर्यात् प्रसारणम्।

अनुभूतिं स्वप्नदृष्टिं मन्येत असत्यज्ञानकम्,
यावन्न लभ्यते तस्य सत्यं पूर्णप्रमाणकम्।

सनातनधर्मः शुद्धः परमपवित्रधारासमः,
तस्मिन्न न योजयेत् अर्धसत्यं वा असत्यवचनम्।

यद् ददास्य् उपदेशं प्रवचनं ज्ञानसमन्वितम्,
स्वयमेव तदाचारः एव हि धर्मनियमकम्॥

शृणुत भक्तगणाः एतद् सनातन वचनम्।
स्वप्नः अनुभूतिश्च द्वयं अनिश्चितदर्शनम्।।


सत्यधर्मः

न पूजया न यज्ञेन न व्रतेन न शोभया।
धर्मो हृदि जागर्ति करुणादीपशोभया॥

दिवानिशं जनाः कुर्वन् विधिवत् पूजनक्रमम्।
यद्यन्तरे दहत्येव द्वेषाग्निर्हृदि दुर्मतम्॥

परान् हिंसन्ति ये लोका धर्मनाम्ना विवर्जिताः।
स्त्रीयाः सम्माननं त्यक्त्वा ते भवन्त्यधर्मचर्यकाः॥

यत्र दैन्यं न दया च न समत्वं न मानवम्।
तत्र धर्मो न वसति केवलं तमोघनम्॥

अहिंसा सत्य तपः शौचं दया समता च धार्यते।
यत्रैते समदीपाः तत्र धर्मः प्रतिष्ठते॥

धर्मो नाट्यविनोदं न वृथा श्लोकगर्जितम्।
धर्मो हृदयसंवेदो दिव्यस्यान्तरदीपकम्॥
भागवतधर्मः

सदा पवित्रे स्थाने वासः शुद्धभोजनसेवनम्।
सर्वकर्माणि संकल्प्य तानि ईश्वराय समर्पणम्॥

भक्त्या श्रद्धया संयुतं भगवतो वन्दनं पूजनं सदा।
भक्त्या श्रद्धया संयुतं सर्वदेवोत्सवं पालयेत् सदा॥

निष्कामकर्मसंपादनं भगवतः नित्यस्मरणम्।
निष्कामधर्मपालनं भगवतः नित्यमननम्॥

गूढं भागवततत्त्वं तु सर्वदुःखविनाशनम्।
यः सर्वेषु जीवेष्वेव ईश्वरं पश्यति सत्वरम्॥

एतदेव श्रेष्ठं धर्मम् ईश्वरवर्णितं परमपवित्रम्।
एतत् भागवततत्त्वं सनातनं सर्वदुःखविनाशनम्॥

इति भागवतधर्मस्य वर्णनं संपूर्णम्॥
निष्कामकर्मधर्मसुधा - विश्वाससन्तोषसंगमः

सन्तोषः परमं सुखं, असन्तोषः सदा दुःखम्।
निष्कामकर्म सुखायैव, निष्कामकर्म सर्वहिताय॥

निष्कामधर्मः सर्वश्रेष्ठः, निष्कामधर्मे न मनःकष्टम्।
निष्कामसेवा परं व्रतम्, निष्कामसेवा परं ऋतम्॥

विश्वासेन नारी सती, अविश्वासेन सती न सती।
विश्वासेन लभ्यते हरिः, अविश्वासेन भवति दुर्गति॥

मने सन्तोषं धारयेत्, निष्कामसेवा यथा सर्वहिताय।
तद्वद् एव प्रेम कर्तव्यं, ईश्वरे विश्वासः सर्वसुखाय॥
एकोऽद्वितीयः परमेश्वरः।

नानानाम्ना स एकः, नानामार्गैः स एव हि।
सर्वेषां पथिकानां वै, लक्ष्यैकं स एव हि॥

कृष्णवेणु-निनादेन विश्वगीतं प्रवर्तते॥
अल्लाहस्येच्छया सर्वं सृष्टिचक्रं प्रवर्तते॥

कृष्णे प्रेम च लीला च, दिव्यभावः प्रकाशते।
ईश्वरे सत्यकृपा च, हृदि नित्यं विराजते॥

नानाभाषासु भेदोऽस्ति, तत्त्वं तु न भिद्यते।
एकं नित्यं सनातनं, नानानाम्ना प्रकीर्त्यते॥

बलभद्रः बलज्ञानैः, मार्गदर्शी सदा स्थितः।
अज्ञानसागरात् लोकान् तारयन् सन्मार्गे स्थितः॥

ईशु-पुत्रे त्यागदृष्ट्या प्रेमकारुण्य-दर्शनम्।
दर्शयति सदा लोके विनयस्य महात्म्यम्॥ 

नानामार्गाः समायान्ति, लक्ष्यं तु एकमेव हि।
यथा सूर्यकिरणाः सर्वे, एकस्मात् उद्भवन्ति हि॥

मा कुरुत भेददृष्टिं, मा कुरुत द्वेषवृत्तिम्।
सर्वे यान्ति परं ज्योतिः, त्यक्त्वा सर्वविकल्पितिम्॥

स एको ब्रह्म जगन्नाथो नामभेदैः प्रकीर्तितः ।
स स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण स्थितः ॥
भगवदवतारवर्णनम्

भगवतोऽवतारा बहुधा प्रकीर्तिताः,
धर्मसंस्थापनार्थं लोकेऽवतारिताः॥
तेषां तत्त्वरहस्यं गूढं न बोधितुम् सुलभं ,
भक्त्या तु दिव्यतत्त्वं हृदि स्फुरति नित्यम्॥

चतुर्व्यूहेषु रूपेषु वासुदेवः परः स्मृतः,
संकर्षणः प्रद्युम्नोऽनिरुद्धश्चांशावताराः स्मृताः॥
एते हि व्यूहभेदाः दिव्यरूपप्रकाशकाः,
भगवतः स्वरूपस्य भिन्नांशाः उद्भासकाः॥

तेषामप्यंशरूपाणि लोके विभान्ति नित्यम्,
तानि भगवतः शक्त्या विश्वं बिभ्रति सततम्॥
अन्ये तु गुणावतारा जगति विख्याताः,
सत्त्वादिगुणभेदेन रूपाणि विभ्रताः॥

तेषामपि स्वरूपाणि लोके विभान्ति हि,
लीलया भगवान् विश्वं नित्यं बिभर्ति हि॥
एवं बहुविधैरवतारैर्जगदानुग्रहैः सततम्,
भक्त्या ज्ञायते तत्त्वं तस्य दिव्यं निरन्तरम्॥
जगन्नाथबलभद्रयोः अद्वैततत्त्वम्।

जगन्नाथबलभद्रौ तौ, एकदेहैकजीवनौ।
अभिन्नौ ह्येकतत्त्वौ तौ, नारायणस्वरूपिणौ॥

जगन्नाथो बलभद्रश्च, तयोरेकं हि तत्त्वम्।
जीवनं चैकमेवास्ति, हरिरेव परं पदम्॥

जगन्नाथबलभद्राभ्यां यदा मर्त्यावताराभ्याम्।
तदा लोके पुनः धर्मयुगं समागतम्॥

जगन्नाथं बलभद्रं च परब्रह्मादि-सनातनम्।
मुक्तिमोक्षप्रदं देवं दीनबन्धुं दीननाथम्॥

अच्युतं बलभद्रं च, जगन्नाथं जनार्दनम्।
युगे युगे प्रादुरासीत्, युगदोषविनाशकम्॥

जगन्नाथो बलभद्रश्च प्रद्युम्नोऽनिरुद्धः तथा।
परमात्मिका प्रकृतिश्च सृष्टेः पञ्चदैवताः स्मृताः॥

शान्त-सौम्य-प्रसन्न-वदनं परं ब्रह्म महाद्युतिम् ।
तमोऽरिं सर्व-पाप-घ्नं प्रणतोऽस्मि श्रीजगन्नाथम् ॥

शान्त-सौम्य-प्रसन्न-वदनं परं ब्रह्म महाद्युतिम् ।
तमोऽरिं सर्व-पाप-घ्नं प्रणतोऽस्मि  श्रीबलभद्रम् ॥

ॐ श्रीजगन्नाथाय नमः। ॐ श्रीबलभद्राय नमः॥ 

गङ्गा-स्तवः

देवि भगवति नारायणि गङ्गे,
त्रिभुवन-तारिणि तरल-तरङ्गे।

जगद्वन्दितं तव दिव्यरूपं,
नमामि गङ्गे तव पादपङ्कजम्॥

देवि कुसुमैक सुमन शोभिता,
शान्ति दायिनी जगतां वन्दिता।

मुक्ति दायिनी तव अमृत स्रोत,
नमामि गङ्गे तव पावन जोत।

आत्मशुद्धेर्लक्षणम्- चित्तशुद्धिसाधनम्

चित्ते दृश्यते गद्गदभावः,प्रेमाश्रुभिः प्लावितं नयनम्।
हिच्काभिः सहितं रुदनम्,एतानि आत्मशुद्धेर्लक्षणम्॥

स्नानं दानं ध्यानं च, शुद्धं भोजनपानकम्।
जपस्तपः निष्कामकर्म, संस्कारस्य च पालनम्॥

श्रवणं कीर्तनं विष्णोः, स्मरणं च पदाम्बुजम्।
सेवनं पूजनं दास्यं, सख्यमात्मनिवेदनम्॥

निष्कामधर्मस्य नित्यपालनं, भगवतो नित्यमननम्।
एतेषां नियमिताभ्यासात्, चित्तशुद्धिर्भवेद् ध्रुवम्॥

भक्तलक्षणवर्णन

सदा सर्वत्र ईश्वरस्य दर्शनं, भक्तेः परं लक्षणम्।
परदुःखे दुःखितो भक्तः, परसुखे च सुखान्वितः॥

शुद्धाचारा दयापूर्णः, मितभाषी जितेन्द्रियः।
निन्दां न कुरुते कस्यचित्, सर्वेषां सत्यप्रियः ॥

सत्यप्रियः क्षमाशीलः, समदृष्टिः सुखदुःखयोः।
लोभमोहविनिर्मुक्तः, स भक्तः परमः स्मृतः॥

ईश्वरार्पितसर्वकर्मा, फलसङ्गविवर्जितः।
फलत्यागसमायुक्तः, सन्तुष्टः सततं स्थितः॥

नाहंकारं न मदं धत्ते, स्नेहं सर्वेषु विन्दति।
सर्वासक्तिविनिर्मुक्तः, विष्णुभक्तः विराजति॥

श्रवणं कीर्तनं विष्णोः, स्मरणं च पदाम्बुजम्।
सेवनं पूजनं दास्यं, सख्यमात्मनिवेदनम्॥

एवं लक्षणसंपन्नः, स भक्तो मुक्तिभाजनः।
न भयं तस्य संसारात्, स एव मे प्रियजनः॥

Popular posts from this blog

Education: and Knowledge: Knowledge is the greatest Strength: jnanam paramam Balam

Brahmana and the principal (main) qualities of a Brahmana